श्री पार्वती उवाच
कैलासशिखरे रम्ये गौरी पृच्छति शंकरम । ब्रह्माण्डखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
आश्चर्यमिदमत्यन्तं जायते मम शंकर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर ॥३॥
श्री महादेव उवाच
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत । इदं रहस्यं परमं पुरुषार्थप्रदायम ॥६॥
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम । ददाति स्मरणादेव महामोक्षप्रदायकम ॥७॥
तत्तेऽहं सम्प्रवक्ष्यामि श्रृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥
संसारसागरोत्तारकारणाय सदा नृणाम । श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन ॥११॥
मुरलीवादनाधारी राधायै प्रीतिमावहन । अंशांशेभ्यः समुन्मील्य पुर्णरूपकलायुतः ॥१२॥
श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः । धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥१५॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम ॥१६॥
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत । जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि ॥१८॥
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम । तस्मादिदं महादेवि गोपालेनैव भाषितम ॥१९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥
ततो नारदतः सर्वं विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत ॥२३॥
अस्य श्रीगोपालसहस्त्रनामस्तोत्रमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप छंन्दः, श्रीगोपालो देवता, कामो बीजम माया शक्तिः चन्द्रः कीलकम्, श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्त्रनामजपे विनियोगः
अथवा
ॐ ऐं क्लीं बीजम श्रीं ह्रीं शक्तीः, श्रीवृन्दावननिवासः कीलकम्, श्रीराधाप्रियं परं ब्रह्मोति मन्त्रः, धर्मादिचतुर्विधपुरुषार्थसिद्धर्थे जपे विनियोगः ।
करन्यासः
ॐ क्लां अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः, ॐ क्लूं मध्यमाभ्यां नमः,
ॐ क्लैं अनामिकाभ्यां नमः, ॐ क्लौं कनिष्ठिकाभ्यां नमः, ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ क्लां ह्रदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ क्लूं शिखायै वषट्, ॐ क्लैं कवचाय हुम,
ॐ क्लौं नेत्रत्रयाय वौषट्, ॐ क्लः अस्त्राय फट ।
ध्यानम
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुः करे कंकणम ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
फूल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घवृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥
स्तोत्रम
ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥
धरणीपालको धन्यः पुण्डरीकः सनातनः । गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥२॥
आदिकर्ता महाकर्ता महाकालः प्रतापवान । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥३॥
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥
गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥
दुर्वासाः कपिलो भौमः सिन्धुसागरसङगमः । गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥
गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्रयभञ्जनः ॥७॥
सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥
गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥
मालाकारः कृपाकारः कोकिलास्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥
सहस्त्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥
कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥
श्रीपतिः श्रीनिधिः श्रीमान मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥
रेवतीरमणो रामश्चञ्चलश्चारुलोचनः । रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥
राधारतिसुखोपेतो राधामोहनतप्तरः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥१६॥
राधालिङ्गनसम्मोहो राधानर्तनकौतुकः । राधासञ्जातसम्प्रीती राधाकामफलप्रदः ॥१७॥
वृन्दापतिः कोशनिधिः कोकशोकविनाशकः । चन्द्रपतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥
रामो दाशरथी रामो भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥
वृषभानुर्भवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥
राधामुखाब्जमार्तण्डो भास्करो रविजो विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥
रोहिणीहृदयानन्दी वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥
नागो नवाम्भो विरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान शिपिविष्टः सनातनः ॥२३॥
पर्शुरामवचोग्राही वरग्राही श्रृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥
वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥
यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥
यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः । उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥
भक्तानुकारी भगवान केशवोऽचलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥
अघासुरविनाशी च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान कंसमृत्युर्महामखी ॥३०॥
अश्वमेधो वाजपेयो गोमेधो नरमेधवान । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥
रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥
कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥
सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥
विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥
सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासनः ॥३६॥
चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः । माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥
मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥
तथा तालवनोद्देशी भाण्डीरवनशंखहा । तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥
राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥
क्रीडाकमलसंदोहो गोपिकाप्रीतिरञ्जनः । रञ्चको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥
कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥
अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥
गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥
भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥
शङ्खचूडवधोद्दामो गोपीरक्षणपत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥
फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः । अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥
सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥
महाधनो महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥
शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥
दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥
प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥
कावेरी नर्मदा तापी गण्डकी सरयूस्तथा । राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥
सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥
वंशी वंशधरो लोको विलोको मोहनाशनः । रवरावो रवो रावो बालो बालबलाहकः ॥५७॥
शिवो रुद्रो नलो नीलो लाङ्गली लाङगलाश्रयः । पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥
मोहिनीमोहनो मायी महामायो महामखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः । कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥
हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥
द्वादशारण्यसम्भोगी शेषनागफणालयः । कामःश्यामःसुखःश्रीदःश्रीपतिःश्रीनिधिःकृतिः ॥६२॥
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः । गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥
आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥
रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥
स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः । गोवर्द्धनो वर्द्धनीयो वर्द्धनी वर्द्धनप्रिय ॥६६॥
वर्द्धन्यो वद्धनो वर्द्धी वार्द्धिन्यः सुमुखप्रियः । वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥६७॥
गोपालरमणीभर्ता साम्बकुष्ठविनाशनः । रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥
श्रीकर्ता विश्वभर्ता च नरो नारायणो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम ॥७०॥
शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥
नन्दो नन्दी महानन्दी मादी मादनकः किली । मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥
गुग्गुली मारकी शाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥
अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥
जानकीवल्लभो रामो विरामो विघ्ननाशनः । सहस्त्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥७७॥
सदारामः कृपारामो महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥
कम्बलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥
पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान । विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥
मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः । यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥
वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः । ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥
अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु । मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥
बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥
चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥
श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥
नारायणः परंधाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥
भगवान सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः ॥८८॥
निराधारो निराकारो निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥
क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥
देवकीगर्भसम्भूतो यशोदावत्सलो हरिः । शिवः संकर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥९२॥
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥
नन्दगोपकुमारार्यो नवनीताशनः प्रभुः । पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥
अनिरुद्धश्चक्ररथः शार्ङगपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥
वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः । तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥
शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसंघातः पूतनारिर्नृकेसरी ॥९७॥
पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥९८॥
धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥
क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटीमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥
मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः । फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥
इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥
सुकपोलयुगः सुभ्रूयुगलः सुललाटकः । कम्बुग्रीवो विशालाक्षो लक्ष्मीवान शुभलक्षणः ॥१०४॥
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥१०५॥
किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥
मञ्जीररञ्जितपद सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥
गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥
यमुनातीरसञ्चारी राधामन्मथवैभवः ।गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥
श्रृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम ।सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥
नरकासुरहारी च मुरारिर्वैरिमर्दनः । आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥
जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥
रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥
सुधाकरकुले जातोऽनन्तप्रबलविक्रमः । सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः ॥११४॥
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्त्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥
वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः । गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥११६॥
मूर्तिमान सर्वभूतात्मा आर्तत्राणपरायणः। सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥
षङ्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥११८॥
आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागतवत्सलः ॥११९॥
उत्पत्तिस्थितिसंहारकारणं सर्वकारणम । गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥१२०॥
विष्वक्सेनः सत्यसन्धः सत्यवान सत्यविक्रमः । सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥
आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥
भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥
नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥
उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥
शेषपर्यङ्कशयनो वैनतेयरथो जयी । अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥१२७॥
योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥
नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥
देहेन्द्रियमनःप्राणसाक्षी चेतः प्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥
तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः । ब्रहाण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥
श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः । सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात ॥१३२॥
समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥
नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥
पूर्णानन्दघनीभूतो गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥
गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः । वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥
बालक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥
परंज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥
सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥
भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥
भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥
अपारकरुणासिन्धुर्भगवान भक्ततत्परः ॥१४२॥
॥ फलश्रुतिः ॥
इति श्रीराधिकानाथसहस्त्रं नामकीर्तनम । स्मरणात पापराशीनां खण्डनं मृत्युनाशनम ॥१॥
वैष्णवानां प्रियकरं महारोगनिवारणम । ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥
परद्रव्यापहरणं परद्वेषसमन्वितम । मानसं वाचिकं कायं यत्पापं पापसम्भवम ॥३॥
सहस्त्रनामपठनात सर्वं नश्यति तत्क्षणात । महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान ॥४॥
कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात । पीताम्बरधरो धीमान सुगन्धिपुष्पचन्दनैः ॥५॥
पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥
शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥
यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम । कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥
नारदाय मया प्रोक्तं नारदेन प्रकाशितम । मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम ॥१०॥
गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन । शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥
न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्त्रस्य फलं पाठे भवेद ध्रुवम ॥१३॥
एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम ॥१४॥
तत आरम्भकर्ताऽस्मात सर्वं प्राप्नोति मानवः । शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः ॥१५॥
श्रीवृन्दावनचन्द्रस्य प्रसादात सर्वमाप्नुयात । यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥
न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित । सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥
श्रीगोपालो महादेवि वसेत तस्य गृहे सदा । गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम ॥१८॥
॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्त्रनामस्तोत्रं सम्पूर्णम ॥