श्री मंगलचंडिकास्तोत्रम
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ।
ऐं क्रूं फट स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम ॥
मन्त्रसिद्धिर्भवेद यस्य स विष्णुः सर्वकामदः ।
ध्यानं च श्रूयतां ब्रह्मन वेदोक्तं सर्व सम्मतम ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम ।
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम ।
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम ।
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम ॥
संसारसागरे घोरे पोतरुपां वरां भजे ।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः ॥
शंकर उवाच
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ।
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले ।
सतां मन्गलदे देवि सर्वेषां मन्गलालये ॥
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम ॥
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले ।
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम ।
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः ।
तन्मङ्गलं भवेच्छश्वन्न भवेत तदमङ्गलम ॥
॥ इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम ॥
श्री मङ्गलचण्डिका स्तोत्रं
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें