विल्व पत्र महादेव को अत्यन्त प्रिय है, विल्व पत्र उनको अर्पण किये बिना उनकी उपासना अधूरी है ।
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम ।
त्रिजन्मपापसहांरं मेकबिल्वं शिवार्पणम ॥1
त्रिशाखै बिल्वपत्रश्र्च ह्यच्छिद्र कोमलै: शुभै ।
शिवपूजां करिष्यामि ह्येक्बिल्वं शिवार्पणम ॥2
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम ॥3
शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत ।
सोमयज्ञ-महापुण्यमेकिबल्वं शिवार्पणम ॥4
दन्तिकोटि सहस्त्राणि वाजपेयशतानि च ।
कोटिकन्या - महादानमेकबिल्वं शिवार्पणम ॥5
लक्ष्मया: स्तनत उत्पन्नं महादेवस्य च प्रियम ।
बिल्वंवृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम ॥6
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम ।
अधोरपापसंहार मेकबिल्वं शिवार्पणम ॥7
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम ॥8
बिल्वाष्टकमिदं पुण्यं य: पठेतच्छिवसंनिद्धधौ ।
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात्॥
~~~~~~~~~~~~~~~~~~~~~~
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें