गुरुवार, 14 मई 2015

सड़्कष्टनाशनस्तोत्र


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम ।
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदंत द्वितीयकम । 
तृतीयं कृष्णपिड्:गाक्ष गजवक्त्रं चतुर्थकम ॥२॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च । 
सप्तमं विघ्नराजेंद्रं धूर्मवर्णं तथाष्टकम ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम । 
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । 
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो: ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम । 
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत । 
सम्वत्सरेण सिद्धिं च लभते नात्र संशय: ॥७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत । 
तस्य विद्या भवेत्सर्वा गणेशास्य प्रसादत: ॥८॥

॥श्रीनारदपुराणे सड़्कष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम्॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें