तमोऽरिं सर्वपापन्घं प्रणतोऽस्मि दिवाकरम ॥१॥
दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ॥२॥
धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम ।
कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम ॥३॥
प्रियंगुकलिकाश्यां रुपेणाप्रणाप्रतिमं बुधम ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम ॥४॥
देवानां च ऋषीणां च गुरुं कांचनसन्निभम ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम ॥५॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम ॥६॥
नीलांजनसमाभां रविपुत्रं यमाग्रजम ।
छायामार्तण्ड़सम्भूतं तं नमामि शनैश्चरम ॥७॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम ॥८॥
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम ।
रौद्रं रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम ॥९॥
इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः ।
दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ॥१०॥
नरनारीनृपाणां च भवेद्दुःस्वप्नाशनम ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्द्धनम ॥११॥
॥ इति श्री वेद व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें