रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदांकितं चंदनम ।
जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते ह्यत्कल्पितं गृह्यताम ॥१॥
सौवर्णे नवरत्नखंडरचिते पात्रे घृतं पायसम्
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम्।
शाकानामयुतं जलं रुचिकरं कर्पुरखंडोज्जवलन
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छ्त्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम्
वीणाभेरिमृदंगकाहलकला गीतं च नृत्यं तथा।
साष्टांग प्रणति: स्तुतिर्बहुविद्याह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
आत्मात्वंगिरिजा मति: सहचरा: प्राणा: शरीरं गृहम
पूजा ते विषयोपभोगरचना निद्रा समाधि स्थिति: ।
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो,
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम ॥४॥
इत्येवं हरपूजनं प्रतिदिनं यो वा त्रिसन्धयं पठेत्,
सेवाश्लोकचतुष्ट्यं प्रतिदिनं पूजा हरेर्मानसी ।
सोयं सौख्यमवाप्रुयाद धृतिधरं साक्षाद्ध्वरे दर्शनम्,
व्यासस्तेन महावसानसमये कैलासलोकं गत: ॥५॥
॥इति श्रीमच्छड़्कराचार्यविरचिता शिवमानसपूजा समाप्ता॥
~~~~~~~~~
करचरणकृतं वाक्कायजं कर्मजं वा, श्रवणनयनजं वा मानसंवाऽपराधम ।
विहितमविहितं वा सर्वमेतत्क्षमस्व, जय जय करुणाब्धे श्रीमहादेवशम्भो
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें