गुरुवार, 4 जून 2015

सन्तानगोपाल स्तोत्र


सन्तानगोपाल मूल मन्त्र
॥ ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते ॥
॥ देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
॥ ॐ नमो भगवते वासुदेवाय ॥
सन्तानगोपालस्तोत्रं
श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम ॥१॥
नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम्॥ २ ॥
अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥ ३ ॥
गोपालं डिम्भकं वन्दे कमलापतिमच्युतम । पुत्रसंप्राप्तये कृष्णं नमामि यदुपुङ्गवम ॥ ४ ॥
पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम । देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥ ५ ॥
पद्मापते पद्मनेत्रे पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ ६ ॥
यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम । अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम ॥ ७ ॥
श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥ ८ ॥
भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ९ ॥
रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥ १० ॥
देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ११ ॥
वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२ ॥
कञ्जाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १३ ॥
लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १४ ॥
कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थ सुखदाय बुधाय ते ॥ १५ ॥
राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ १६ ॥
अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥ १७ ॥
श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ १८ ॥
अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनन्दन । रमापते वासुदेव मुकुन्द मुनिवन्दित ॥ १९ ॥
वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥२० ॥
डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥ २१ ॥
नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलनाथ गोविन्द मुकुन्द मुनिवन्दित ॥ २२ ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ २३ ॥
यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनं । वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ २४ ॥
नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ २५ ॥
पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ २६ ॥
गोपाल डिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥ २७ ॥
मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥ २८ ॥
याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्। भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥ २९ ॥
आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥ ३० ॥
वन्दे सन्तानगोपालं माधवं भक्तकामदम । अस्माकं पुत्रसंप्राप्त्यै सदा गोविन्दमच्युतम ॥ ३१ ॥
ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम । क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम ॥ ३२ ॥
वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ ३३ ॥
राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्तकाम्यवरद देहि मे तनयं सदा ॥ ३४ ॥
अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रमानायक माधव ॥ ३५ ॥
नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ३६ ॥
दासमन्दार गोविन्द मुकुन्द माधवाच्युत । गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम ॥ ३७ ॥
यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥ ३८ ॥
अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते । भगवन कृष्ण सर्वेश वासुदेव जगत्पते ॥ ३९ ॥
रमाहृदयसंभारसत्यभामामनः प्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ४० ॥
चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव ।अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ ४१ ॥
कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥ ४२ ॥
देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥ ४३ ॥
भक्तमन्दार गम्भीर शङ्कराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥ ४४ ॥
श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥४५ ॥
जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ ४६ ॥
श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४७ ॥
दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४८ ॥
गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४९ ॥
श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥ ५० ॥
स्तन्यं पिबन्तं जननीमुखांबुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम ।
स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम ॥ ५१ ॥
याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ५२ ॥
अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥ ५३ ॥
वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥ ५४ ॥
कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दनम । मह्यं च पुत्रसन्तानं दातव्यंभवता हरे ॥ ५५ ॥
वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौशल्याप्रियनन्दन ॥ ५६ ॥
पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥ ५७ ॥
कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ ५८ ॥
देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥ ५९ ॥
विभीषणस्य या लङ्का प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ ६० ॥
भवदीयपदांभोजे चिन्तयामि निरन्तरम । देहि मे तनयं सीताप्राणवल्लभ राघव ॥ ६१ ॥
राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥ ६२ ॥
राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन । 
देहि मे तनयं राम कृष्ण गोपाल माधव ॥ ६४ ॥
कृष्ण माधव गोविन्द वामनाच्युत शङ्कर । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५ ॥
गोपबाल महाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ ६६ ॥
दिशतु दिशतु पुत्रं देवकीनन्दनोऽयंदिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम ।
दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रोदिशतु दिशतु पुत्रं वंश विस्तारहेतोः ॥ ६७ ॥
दीयतां वासुदेवेन तनयोमत्प्रियः सुतः । कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८ ॥
राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६९ ॥
वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७० ॥
ममाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७१ ॥
चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७२ ॥
विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥ ७३ ॥
नमामि त्वां पद्मनेत्र सुतलाभाय कामदम । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम ॥ ७४ ॥
भगवन कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः ॥ ७५ ॥
स्वामिंस्त्वं भगवन राम कृष्न माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ ७६ ॥
तनयं देहिओ गोविन्द कञ्जाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७७ ॥
पद्मापते पद्मनेत्र प्रद्युम्न जनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७८ ॥
शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ७९ ॥
नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥ ८० ॥
राम राघव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ ८१ ॥
देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ८२ ॥
मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८३ ॥
गोपिकार्जितपङ्केजमरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८४ ॥
रमाहृदयपङ्केजलोल माधव कामद । ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ ८५ ॥
वासुदेव रमानाथ दासानां मङ्गलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८६ ॥
कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८७ ॥
पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८८ ॥
पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८९ ॥
दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९० ॥
पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम । वन्दामहे सदा कृष्णं पुत्र लाभ प्रदायिनम ॥ ९१ ॥
कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभाय देहि मे तनयं विभो ॥ ९२ ॥
नमस्तस्मै रमेशाय रुमिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९३ ॥
नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥ ९४ ॥
रङ्गशायिन रमानाथ मङ्गलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९५ ॥
दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ ९६ ॥
यशोदातनयाभीष्टपुत्रदानरतः सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९७ ॥
मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९८ ॥
नीतिमान धनवान पुत्रो विद्यावांश्च प्रजापते । भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥ ९९ ॥
यःपठेत पुत्रशतकं सोऽपि सत्पुत्रवान भवेत । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ १०० ॥
जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ १०१ ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें