शुक्रवार, 26 जून 2015

॥ अथ श्री शिवाष्टकम ॥


प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम । 
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥ १ ॥ 

गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम । 
जटाजूट गङ्गोत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडे ॥ २ ॥ 

मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम । 
अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ३ ॥ 

वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम । 
गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ४ ॥ 

गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम । 
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ५ ॥ 

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम । 
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ६ ॥ 

शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम । 
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ७ ॥ 

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं। 
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे ॥ ८ ॥ 

स्वयं यः प्रभाते नरश्शूल पाणे पठेत स्तोत्ररत्नं त्विहप्राप्यरत्नम ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें